|
|
 |
 |
|
|
१ आदिपर्व.jpg)
॥ श्रीः ॥
1.257. अध्यायः 257
Mahabharata - Adi Parva - Chapter Topics
पुत्रैः सह संवादानन्तरं जरितायाः स्थानान्तरगमनम्॥ 1 ॥
Mahabharata - Adi Parva - Chapter Text
जरितोवाच। 1-257-0x(1344)(11150)
अस्माद्बिलान्निष्पतितमाखुं श्येनो जहार तम्।
क्षुद्रं पद्भ्यां गृहीत्वा च यातो नात्र भयं हि वः॥ 1-257-1(11151)
शार्ङ्गका ऊचुः। 1-257-2x(1345)
न हृतं तं वयं विद्मः श्येनेनाखुं कथंचन।
अन्येऽपि भितारोऽत्र तेभ्योऽपि भमेव नः॥ 1-257-2(11152)
संशयो वह्निरागच्छेद्दृष्टं वायोर्निवर्तनम्।
मृत्युर्नो बिलवासिभ्यो बिले स्यान्नात्र संशयः॥ 1-257-3(11153)
निःसंशयात्संशयितो मृत्युर्मातर्विशिष्यते।
चर खे त्वं यथान्यायं पुत्रानाप्स्यसि शोभनान्॥ 1-257-4(11154)
जरितोवाच। 1-257-5x(1346)
अहं वेगेन तं यान्तमद्राक्षं पततां वरम्।
बिलादाखुं समादाय श्येनं पुत्रा महाबलम्॥ 1-257-5(11155)
तं पतन्तं महावेगा त्वरिता पृष्ठतोऽन्वगाम्।
आशिषोऽस्य प्रयुञ्जाना हरतो मूषिकं बिलात्॥ 1-257-6(11156)
यो नो द्वेष्टारमादाय श्येनराज प्रधावसि।
भव त्वं दिवमास्थाय निरमित्रो हिरण्मयः॥ 1-257-7(11157)
स यदा भक्षितस्तेन श्येनेनाखुः पतत्रिणा।
तदाहं तमनुज्ञाप्य प्रत्युपायां पुनर्गृहम्॥ 1-257-8(11158)
प्रविशध्वं बिलं पुत्रा विश्रब्धा नास्ति वो भयम्।
श्येनेन मम पश्यन्त्या हृत आखुर्महात्मना॥ 1-257-9(11159)
शार्ङ्गका ऊचुः। 1-257-10x(1347)
न विद्महे हृतं मातः श्येनैनाखुं कथंचन।
अविज्ञाय न शक्यामः प्रवेष्टं विवरं भुवः॥ 1-257-10(11160)
जरितोवाच। 1-257-11x(1348)
अहं तमभिजानामि हृतं श्येनेन मूषिकम्।
नास्ति वोऽत्र भयं पुत्राः क्रियतां वचनं मम॥ 1-257-11(11161)
शार्ङ्गका ऊचुः। 1-257-12x(1349)
न त्वं मिथ्योपचारेण मोक्षयेथा भयाद्धि नः।
समाकुलेषु ज्ञानेषु न बुद्धिकृतमेव तत्॥ 1-257-12(11162)
न चोपकृतमस्माभिर्न चास्मान्वेत्थ ये वयम्।
पीड्यमाना बिभर्ष्यस्मान्का सती के वयं तव॥ 1-257-13(11163)
तरुणी दर्शीयाऽसि समर्था भर्तुरेषणे।
अनुगच्छ पतिं मातुः पुत्रानाप्स्यसि शोमनान्॥ 1-257-14(11164)
वयमस्निं समाविश्य लोकानाप्स्याम शोभनान्।
अथास्मान्न दहेदग्निरायास्त्वं पुनरेव नः॥ 1-257-15(11165)
वैशम्पायन उवाच। 1-257-16x(1350)
एवमुक्ता ततः शार्ङ्गी पुत्रानुत्सृज्य खाण्डवे।
जगाम त्वरिता देशं क्षेममग्नेरनामयम्॥ 1-257-16(11166)
ततस्तीक्ष्णार्चिरभ्यागात्त्वरितो हव्यवाहनः।
यत्र शार्ङ्गा वभूवुस्ते मन्दपालस्य पुत्रकाः॥ 1-257-17(11167)
ततस्तं ज्वलितं दृष्ट्वा ज्वलनं ते विहङ्गमाः।
`व्यथिताः करुणा वाचः श्रावयामासुरन्तिकात्।'
जरितारिस्ततो वाक्यं श्रावयामास पावकम्॥ ॥ 1-257-18(11168)
इति श्रीमन्महाभारते आदिपर्वणि मयदर्शनपर्वणि सप्तपञ्चाशदधिकद्विशततमोऽध्यायः॥ 257 ॥
Mahabharata - Adi Parva - Chapter Footnotes
1-257-3 वह्निरागच्छेदित्यत्र संशयो यतो वायोः सकाशाद्वह्नेति वर्तनं दृष्टम्॥ 1-257-5 अहं वैश्येनमायान्तं इति ङ. पाठः॥ सप्तपञ्चाशदधिकद्विशततमोऽध्यायः॥ 257 ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|